SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ सिद्धहेमलघुवृत्ती [प्रथमाध्यायस्य अतिश्रीणाम् , अतिश्रियाम् । अतिभ्रूणाम् , अतिभ्रुवाम् , नृणां स्त्रीणां वा । इयुव इत्येव ? । प्रधीनाम् ॥ ह्रस्वापश्च ॥ ३२ ॥ हस्वान्तादाबन्तात् स्त्रीदूदन्ताच्च परस्यामो नाम् स्यात् । देवानाम् , मालानाम् , स्त्रीणाम् , वधूनाम् ॥ सङ्घयानां ष्र्णाम् ।। ३३ ॥ रषनान्तानां सङ्ख्यावाचिनामामो नाम् स्यात् । चतुर्णाम् , षण्णाम् , पञ्चानाम् , अष्टानाम् ॥ त्रेस्त्रयः ॥ ३४॥ आमः सम्बन्धिनस्रेस्त्रयः वृत्तिः, ' चानुकृष्टं नानुवर्तते' इति न्यायात् । ' विशेषणमन्तः ' विशेष्यश्च नाम एव । देवानामिति, ' दीर्घोनामी 'ति दीर्घः सन्निपातलक्षणन्यायस्यानित्यत्वात् । सङ्ख्यानां, र्च षच न्च र्णः तेषाम् आमो नामित्यनुवर्तते, अत्र सम्बन्धे षष्ठी। सङ्ख्याशब्देन च सङ्ख्याप्रकारकसङ्खयेयविशेष्यकबोधजनकशब्दो ग्राह्यः, अन्यथा सङ्ख्या शब्दस्यैकत्वादिसङ्ख्यापरत्वे विशेष्यविशेषणभावासम्भवात् , र्णामिति शब्दनिर्देशाच्छब्दार्थयोश्च सामानाधिकरण्यासम्भवात् , D. मित्यत्र निमित्तनिमित्तिनोरेकपदत्वाभावान्न — षवणे 'ति णत्वं किन्तु ' तवर्गस्ये 'ति णत्वम्। पश्चन् आम्, अत्रानेन नाम् ' दी?नामी 'ति दीर्घः । नाम्नो नोऽनतः' इति नलोपः पञ्चानाम् । न च कथमनेन दीर्घः निमित्तनिमित्तिनो कारेण व्यवधानादिति वाच्यम् , तथा सति अतिसूचतसृष इति पूवर्जनस्य व्यर्थत्वाऽऽपत्तेः । षण्णां चतुर्णामित्यादौ हि षकाररकारव्यवधानादेव दीर्घनिषेधसिद्धौ पर्जनं 'येन नाव्यवधानं तेन व्यवहितेऽपि स्यादि 'ति न्यायं ज्ञापयति । तेन भूतपूर्वनान्ताया अपि । अष्टानां 'वाऽष्टन' इति .परत्वात् प्रथमं नस्य आः ततश्च भूतपूर्वगत्या नान्तत्वादनेन नाम् । न च भूतपूर्वकस्तद्वदुपचार ' इति न्यायेनैव अष्टानामित्यस्य सिद्धौ बहुवचनं व्यर्थमिति वाच्यम् , अस्य न्यायस्यानित्यत्वज्ञापनार्थत्वात् । तत्सम्बन्धिविज्ञानादिह न स्यात् प्रियचतुराम् ॥ त्रेः षष्ठी, त्रयः प्रथमा । आमः इत्यनुवर्तते । परमाश्च ते त्रयश्च परमत्रयः तेषाम् , तत्सम्ब
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy