SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ चतुर्भपापः] अवधूरिपरिष्कारसहितायाम् । स्यात् । त्रयाणाम् , परमत्रयाणाम् ॥ एदोद्भयां सिङसो रः॥ ॥३५॥ एदोद्भयां परयोः प्रत्येकं ङसिङसो रः स्यातू । मुनेः, मुनेः । घेनोः, घेनोः । गोः, गोः । द्योः, द्योः ॥ खितिखीतीय उर् ॥ ॥३६॥ खितिखीतीसम्बन्धिनोर्यात्परयोर्डसिङसोरुर् स्यात् । सख्युः, सख्युः । पत्युः, पत्युः । सखायं पतिं चेच्छतः सख्युः २, पत्युः २। न्धिविज्ञानादिह न स्यादतित्रीणाम् ।। एच ओच्च एदोतो ताभ्याम् , ङसिश्च स् च उसिडस् तस्य, रः प्रथमा । वचनभेदो यथासङ्घय/निवृत्त्यर्थः । मुनि असिति स्थिते - ङित्यदिती 'त्येत्वेऽनेन सूत्रेणासो रेफः, स च 'प्रत्ययस्ये 'ति परिभाषया सर्वस्य भवति । ननु मुनेरित्य. त्रैकारस्य लाक्षणिकत्वात् , सूत्रे च ' लक्षणप्रतिपदोक्तयोः प्रतिपदो. क्तस्यैव ग्रहणामि 'ति न्यायेन स्वाभाविकस्यैवैदोतोहणेन कथमत्र रकार, इति चेन्न, एदोद्भयामिति तकारस्य स्वरूपमात्रग्रहणसूचनपरस्वात्तैन लाक्षणिके प्रतिपदोक्ते चायं प्रवर्तते । अत एव मुनेः धेनोः, गौः द्यौः इत्युभयविधोदाहरणमुपन्यस्तम् । 'इवर्णादेरस्वे' इत्यादिसूत्रनिर्देशनोक्तन्यायस्याऽनित्यत्वात्॥ खिश्च तिश्च खीश्च तीश्च, खितिखीतीनां य खितिखीतीय तस्मात् उर् ॥ ङसिङस इत्यनुवर्तते । सखि ङस् , अत्र ' इवर्णादेरि 'ति यत्वमनेन ङस उर् , सख्यु र्, 'रः पदान्ते ' । एवमग्रेऽपि । सखायं पतिं वा इच्छति सखीयति पतीयति 'अमाव्ययात् ' क्यन् , ततः क्विः सखीः पतीः, ततो ङसि ‘योऽनेकस्वरस्ये 'ति यत्वेऽनेन उर्, सख्युः पत्युः । पाणिनीये त्वस्मिन्विग्रहे प्रथमैकवचने सखा इति रूपं भवति । सखायमतिक्रान्तो यः सोऽतिसखा, अधिकं पतिः अधिपतिः, तस्मादिति पञ्चमीविभक्तो ' स्पर्द्ध' इति सूत्रेण 'इवर्णादेरिति' यत्वं न भवति, एत्वं भवत्येव, सख्युरित्यत्राऽपि कथमेत्वं न, उच्यते, 'न नाडिदेदिति केवलसखि. पतिशब्दयोरेत्वं न भवति ॥ अतः पञ्चमी, डुर् । असिङस इत्यनु
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy