________________
सिद्धहेमलघुवृत्तौ [ प्रथमाध्यायस्य नित्यस्त्रीलिङ्गादीदूदन्ताच्च परेषां स्यादेर्डितां यथासङ्ख्यं दैदास्दास्दामः स्युः । नद्यै, नद्याः, नद्याः, नद्याम् । कुवै, कुर्वाः, कुर्वाः, कुर्वाम् । अतिलक्ष्म्यै पुंसे स्त्रिय वा। स्त्रीति किम् ? ग्रामण्ये, खलप्वे पुंसे स्त्रियै ॥ वेयुवोऽस्त्रियाः ॥ ३० ॥ इयुव्स्थानिनौ यौ स्त्रीदूतौ तदन्तात् स्त्रीवर्जात्परेषां स्यादेर्डितां यथासङ्ख्यं दैदास्दास्दामो वा तस्यै कु. । लक्ष्यते पुण्यकर्मानयेति लक्ष्मीः, लक्ष्मीमतिक्रान्तोऽतिक्रान्ता वासावतिलक्ष्मीः, तस्मै तस्यै वा । अर्थान्तरसङ्घमात्पूर्व लिङ्गबोधके वृत्तिघटकशब्दे वर्तमानं नित्यत्रीत्वमादाय तस्य वृत्तावर्थान्तरसङ्कमात् स्त्र्याख्खाभावेऽपिा दामादयो भवन्ति । ग्रामं नयतीति प्रामणीः । खलं पुनातीति खलपूः तस्मै तस्यै वा । स्त्रिया इत्यनुवर्तमाने पुनः स्त्रीग्रहणं नित्यस्त्रीविषयार्थम् , तेनेह न भवति, क्रियाशब्दत्वेन त्रिलि. ङ्गत्वात् ,नित्यस्त्रीत्वञ्च प्रवृत्तिनिमित्तैक्ये लिङ्गान्तरविशिष्टार्थानभिधायकत्वम् , यत्प्रवृत्तिनिमित्तं स्त्रीत्वस्यान्वयितावच्छेदकं स्त्रीत्वेतरलिङ्गस्यान्वयितावच्छेदकञ्च भवति तद्रूपविशिष्टार्थानभिधायकत्वमित्यर्थः, अर्थात् स्त्रीत्वान्वयितावच्छेदकं स्त्रीत्वेतरलिङ्गान्वयितानवच्छेदकञ्च यत्प्रवृत्तिनिमित्तं तादृशप्रवृत्तिनिमित्तविशिष्टार्थाभिधायकत्वमिति भावः, कुमारीमिच्छति कुमारीयति, कुमारीयतीति कुमारी तस्मै तस्यै वा कुमार्यै । अस्य लिङ्गान्तरविशिष्टार्थाभिधायकत्वान्नित्यत्रीत्वाभावे प्रसक्ते तद्वारणाय प्रवृत्तिनिमित्तैक्ये इत्युक्तम् ,प्रकृतिभूतकुमारीशब्दस्य नित्यत्रीत्वात् , वृत्तावपि विशेषणतया नित्यत्रीलिङ्गरूपार्थबोधकत्वेन च दायादयो भवन्तीति । ग्रामण्यादिशब्दास्तु न नित्यत्रीविषयाः, ग्रामनयनकर्तृत्वलक्षणप्रवृत्तिनिमित्तस्य स्त्रीत्वान्वयितावच्छेदकत्वात् स्त्रीत्वे. तरलिङ्गान्वयितावच्छेदकत्वाच्च । पदान्तरं विनाऽपि स्त्रियां वर्तमानत्वं नित्यत्रीत्वमित्यपि लक्षणम् । वा, इय् च उव् च इयुव तस्मात् , न स्त्री अस्त्री तस्याः पञ्चमी ॥ स्त्रीदूतः ङितां दैदासदासदामित्यनुवर्तते । इयुवः इति स्त्रीदूतो विशेषणम् , तेन इयुवस्थानिनौ यो स्त्रीदूताविति