________________
चतुर्थपादः] अवचूरिपरिष्कारसहितायाम् । पते र्यष्टाया ना' 'ङिति परे ए'च्चोक्तः स न स्यात् । सख्या, पत्या सख्ये, पत्ये सख्युः, पत्युः, आगतं स्वं वा। सख्यौ, पत्यौ। ङिदिति किम् ? पतयः ॥ स्त्रियाः डितां वा दैदासदासदाम् ॥२८॥ स्त्रीलिङ्गादिदुदन्तात्परेषां डितां डेङसिङस्ङीनां यथासङ्ख्यं दैदास् दास्दामो वा स्युः । बुद्ध्यै, बुद्धये । बुद्ध्याः, बुद्धेः आगतम् स्वम् वा । बुद्ध्याम् , बुद्धौ । धेन्वै, धेनवे । धेन्वाः, धेनोः। धेन्वाम् , धेनौ । प्रियबुद्ध्ये, प्रियबुद्धये, पुंसे स्त्रियै वा ॥ स्त्रीदूतः ॥ २९ ॥
एत् डिदेत्, ना च डिदेच्च नाडिदेत् ॥ केवलसखिपतेरित्यनुवर्त्तते । सख्या पत्या इत्यत्र टाया नानिषेधः । सख्ये पत्ये इत्यत्र उपरे इवर्णस्यैत्वनिषेधः । सर्वत्र ' योऽनेकस्वरस्ये 'ति यत्वम् । सख्युः पत्युरिवर्णादेर्यत्वे कृते सति — खितिखीती य उर् , ' सख्यौ पत्यावित्यत्रौरीत्यादेशे कृते ङित्यदितीति प्राप्नोति, न तु पूर्वम , यतस्तद्वाधको डिौँः । ततोऽपि केवलसखि पतीत्यौत्वं तत 'स्तदादेशास्तद्वद्भवन्ती 'ति न्यायात् स्यादित्वे सत्येत्वं प्राप्तमनेन निषिद्धम् । स्त्रियाः पञ्चमी, ङितां षष्ठी, वा, दैश्च दास् च दास् च दाम् च ।। इदुत इत्यनुवर्तते। केवलसखिपतेरिति नानुवर्तते, पत्युर्नेति निर्देशात्तथाच विशेष्यतयाऽऽक्षेपलब्धस्य नाम्न एव ग्रहणमतः सामान्येनोक्तमिदुदन्तात्परेषामिति, इदुदन्तानाम्नः परेषामित्यर्थः । परेषामित्यु. क्तत्वात् तत्सम्बन्धिनामन्यसम्बन्धिनां वा ङितां ग्रहणम् । बुद्ध्यै इति ( दायादेशे कृते, बुद्धये इति तु 'ङित्यदिती 'त्येत्वे, अयादेशे च सिद्ध्यति । एवं बुद्ध्या इत्याद्यपि। प्रिया बुद्धिर्यस्य यस्या वा, प्रियबुद्धिस्तस्मै तस्यै वेति समानमेव रूपं समासार्थस्य पुरुषादौ वृत्तावपि तद्धटकबुद्ध्यादिशब्दानां स्त्रीत्वाद्वा दायादयः । ईच्च ऊच्च ईदूत्, स्त्रियाः ईदूत् स्त्रीदूत् तस्मात् ॥ ङितां दैदासदास्दामित्यनुवर्तेते। नद, गौरादित्वात् डीः, 'अस्य ङयां लुक् । कुरोरपत्यं स्त्री, 'दुनादी'त्यादिना व्यस्तस्य — कुरोर्यो 'ति लुपि ' उतोऽप्राणिनश्चे ' त्यूङि कुरूः