SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ सिद्धहेमलघुवृत्ती [ प्रथमाध्यायस्य पुंविषयायाष्टाया ना स्यात् । अतिस्त्रिणा, अमुना। पुंसीति किम् ? बुद्ध्या ॥ डिडौं ।। २५॥ इदुदन्तात्परो डिौंः स्यात् । मुनौ, धेनौ । अदितीत्येव ? बुद्ध्याम् ॥ केवलसखिपतेरौः ॥ २६ ॥ केवलसखिपतिभ्यामिदन्ताभ्यां परो डिरौः स्यात् । सख्यौ, पत्यौ । इत इत्येव ? सखायमिच्छति, पतिमिच्छति, सख्यि, पत्यि । केवलेति किम् ? प्रियसखौ, नरपतौ ॥ न नाग्देित् ॥ २७ ॥ केवलसखिपुंसि, ना प्रथमा । इदुत इत्यनुवर्तते। स्त्रीमतिक्रान्तो यः सोऽतिस्त्रिः तेन, अनेन टो ना, रघुवर्णेति णत्वम् । अदस्टा 'आद्वेरः' 'लुगस्या' 'मोऽवर्णस्येति' दकारस्य मकारः, 'प्रागिनात् ' पूर्वमुत्वं पश्चादनेन नाभावः, अमुना कुलेनेत्यत्र तूत्वे कृते पश्चात् 'अनाम् स्वरे नोन्त' इति भवति । डिः प्रथमा, डौ प्रथमा ॥ इदुतोऽदितीति पदद्वयमभिसम्बध्यते । ङे विति कृते पञ्चम्येकवचनस्य भ्रान्तिः स्यादतो डिर्डावित्युक्तम् डकारोऽन्त्यस्वरादिलोप्रार्थः । बुद्ध्यामिति, नच दाम् विधानसामर्थ्यादेवाऽत्र डोर्न भवति, किमदितीति वाच्यम, तस्य 'डित्यदिती 'त्येत्वनिषेधकत्वेन चरितार्थत्वात् डोप्रवृत्तिर्भवेदेव, ।। सखिश्च पतिश्च सखिपतिः केवलश्चासौ सखिपतिश्च तस्मात् , औः, इतो डिरित्यनुवर्तते । सखि ङि, अनेन सूत्रेण औ, इवर्णादेरिति यत्वम् , एवं पत्यावपि । सखिशब्दस्यदन्तत्वाव्यभिचारादित इति विशेषणं किमर्थमित्यत्राऽऽहेत इत्येवेति । सखाययमिच्छति सखीयति सखीयतीतिव्युत्पत्तौ क्विपि यलोपे सखीरिति भवति, अत्र डेरौत्ववारणायेत इत्युक्तम् । अत्र ' योऽनेकस्वरस्ये 'ति यत्वे सख्यीति रूपम् । प्रियः सखा यस्य तस्मिन् । नराणां पतिस्तस्मिन् , अत्र केवलपदोपादानात् 'ग्रहणवता नाम्ना न तदन्तविधिरिति न्यायोऽनित्य इति ज्ञायते । तन्न्यायस्य प्रवृत्तौ हि सूत्रे केवलपदाभावेऽपि प्रियसखावित्यादा वौत्वनिषेधः सिद्ध्यत्येवेति केवलशब्दो व्यर्थः स्यात् ॥ न, ङिति
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy