SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ चतुर्थपादः ] अवचूरिपरिष्कारसहितायाम् । ८३ स्याताम् । मुनी, साधू । अस्त्रेरिति किम् ? अतिस्त्रियौ नरौ ।। जस्येदोत् ।। २२ ॥ इदुदन्तयोर्जसि परे यथासङ्ख्यमेदोतौ स्याताम् । मुनयः, साधवः ॥ डित्यदिति ॥ २३ ॥ अदिति ङिति स्यादौ परे इदुदन्तयोर्यथासङ्ख्यमेदोतौ स्याताम् । अतिस्त्रये साधवे, अतिस्त्रेः साधोरागतं स्वं वा। अदितीति किम् ? बुद्ध्याः, धेन्वाः । स्यादावित्येव ! शुची स्त्री ॥ टः पुंसि ना ॥ २४ ॥ इदुदन्तात्परस्याः किमर्थमत्र निवर्जनम्, परत्वात् 'स्त्रिया' इत्यनेन इयादेशेऽनेन सूत्रेणेदादेशस्याप्राप्तेः, उच्यते, निरर्थकं ह्यस्त्रिग्रहणं परेणापीयादेशेनेदूत्कार्य न बाध्यत इति ज्ञापयति, तेनातिस्त्रयः पुरुषाः, इत्यादि सिद्धम् । अत्र वक्ष्यमाणसूत्रेण जस्येदादेशः ॥ जसि सप्तमी, एच ओच्च एदोत् ॥ इदुत इत्यनुवर्तते ॥ ङिति, इत् अनुबन्धो यस्य स, न दित् अदित् तस्मिन् ॥ इदुतः, एदोदिति पदद्वयमभिसम्बध्यते । नियमतिक्रान्तो यः सोऽतिस्त्रिः तस्मै, ' गोश्चान्ते ' । धीयतेऽस्याः पय इति धेनुः । बुद्ध्याः धेन्वा इत्यादौ ङसि दास्भवति, स च दित् , नन्वेदोतावन्तरङ्गाविकारोकारमात्रापेक्षत्वात् , दायाद्यादेशो बहिरङ्गः स्त्रीत्वविशिष्टेकारोकारापेक्षत्वात् , तथा च 'अन्तरङ्ग बहिरङ्गादिति न्यायेनान्तरङ्गकार्यमेव प्रथमं स्यात् , ततश्च न दायादयः इकारोकाराभावात् । न च स्थानिवत्वं वर्णविधित्वात् , न चायमवर्णविधिः, इदुदन्तादादेशविधानादिति वाच्यम् , अप्रधानेऽपि वर्णवि. धिप्रतिषेधादिति चेन्न, अनवकाशत्वेन पूर्व दायाद्यादेशस्य प्रवृत्तेः पुनवादितीति प्रतिषेधात् । न च दायाद्यादेशे सति पश्चान्नेदोती भवतः 'सन्निपात' लक्षणन्यायादिति वाच्यम् यत्वस्याप्यभावप्रसंगात्तस्माददितीति प्रतिषेधो वर्णविधावयं न्यायो नोपतिष्ठत इति ज्ञापनार्थः । तेन च दायाद्यादेशे कृते एदोतौ न भवतो यत्वन्तु भवतीति, शुचेः स्त्रीत्वे डीप्रत्यये सति तस्य स्यादित्वाभावान्दोतौ भवतः ॥ ८ः षष्ठी,
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy