SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ ८२ सिद्धहेमलघुवृत्तौ . [प्रथमाध्यायस्य सङ्ख्यं यैयास्यास्यामः स्युः । खटाय, खटायाः, खटायाः, खटायाम् ॥ सर्वादेर्डस्पूर्वाः ॥ १८ ॥ सर्वादेराबन्तस्य जिताम् यैयास्यास्यामस्ते डस्पूर्वाः स्युः । सर्वस्यै, सर्वस्याः, सर्वस्याः, सर्वस्याम् ॥ टौस्येत् ॥ १९॥ आबन्तस्य टौसोः परयोरेकारः स्यात् । बहुराजया, बहुराजयोः ॥ औता ॥ २० ॥ आबन्तस्य औता सहैकारः स्यात् । माले स्तः पश्य वा ॥ इदुतोऽस्ररीदूत् ॥ २१ ॥ स्त्रैरन्यस्येदन्तस्योदन्तस्य च औता सह यथासङ्ख्यमीदूतौ 'एकानुबन्धग्रहणे न द्यनुबन्धकस्ये 'ति न्यायस्यानित्यत्वेनाप्रवृत्तेः । सर्वादेः षष्ठी, डस् पूर्वो येभ्यस्ते ॥ आपो ङितामिति संपूर्ण सूत्र. मनुवर्तते । सर्वा डे, इत्यत्रऽऽपो डिन्तामिति सूत्रेण यायादेशः, अनेन च डस्पूर्वः, सर्वा डस् य इति जाते डलोपे 'डित्यन्त्यस्वरादेरि'त्यने. नाऽऽकारलोपे सर्वस्यै इति सिद्ध्यति, एवमप्रेऽपि । अस्यै, अस्याः अस्यामित्यत्र इदम्शब्दस्य मकारस्य 'आद्बरः' इत्यत्वे कृते 'लुगस्या' इत्यकारलोपे 'आत्' इत्यापि, ' आपो ङितामिति यैप्रभृत्यादेशे कृते परत्वादनगित्यादेशेऽनेन डस्पूर्वत्वे . डियन्त्येत्यकारलोपे, अस्यै इत्यादिरूपसिद्धिः । टाश्च ओस्च तस्मिन् , एदित्यनुवर्तते । बहवो राजानो यस्याः सा बहुराजा तया । अनेन सूत्रेण टापरे आबन्तस्यैकारः, ॥ औता तृतीया ॥ आप एदित्यनुवर्तते ।। अत्रार्थवशादाबन्तस्येति द्विधा भाव्यम् , तेनावन्तस्य सम्बन्धिनौता सहाबन्तस्यैव स्थाने एकारः स्यादित्यर्थः । अत्रौदिति प्रथमाद्वितीयाद्विवचनस्य ग्रहणमविशेषात् । अत एवोदाहरणे प्रथमाद्विवचनापेक्षया स्त इति द्वितीयाद्विवचनापेक्षया पश्येति क्रियापदद्वयमुपन्यस्तम् ।। इच्च उच्च इदुत् तस्य न स्त्रिः अस्त्रिः तस्य, ईच्च ऊच्च ईदूत् ॥ औता इत्यनुवर्तते । अत्र त्रिवर्जनादिदुत इति षष्ठी न तत्सम्बन्धिनी, बियमतिक्रान्तौ यौ नरौ तावतित्रियो, ' गोश्चान्ते ' ' स्त्रिया' इतीय । ननु
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy