SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ चतुर्थपादः ] अवचूरिपरिष्कारसहितायाम् ર " काय || अवर्णस्यामः साम् || १५ || अवर्णान्तस्य सर्वादेरामः साम् स्यात् । सर्वेषाम्, विश्वासाम् ॥ नवभ्यः पूर्वेभ्य इस्मा - स्मिन्वा ॥ १६ ॥ पूर्वादिभ्यो नवभ्यो ये इस्मात्स्मिनो यथास्थानमुक्तास्ते वा स्युः । पूर्वे, पूर्वाः । पूर्वस्मात् पूर्वात् । पूर्वस्मिन्, पूर्वे; इत्यादि, नवभ्य इति किम् ? त्ये ॥ आपो डितां यैयास्यास्याम् ॥ १७ ॥ आवन्तस्य विताम् डेङसिङस्डीनां यथानिवृत्तम् ॥ अर्थवग्रहणेनानर्थकस्य ग्रहणमिति न्यायात् तेन पटुजातीयायात्र न भवति, जातीयर् प्रत्ययत्वात् । द्वयोः पूरणो द्वितीयः ‘द्वेस्तीयः' इति तीयप्रत्ययः, ङित्कार्य इत्युक्तेस्तत्रैव सर्वादित्वं अवर्णस्य, आमः षष्ठी, साम् प्रथमा || सर्वादेरिति वर्तते । 'विशेषणमन्त ' इति परिभाषाऽपि वर्तते । सर्व आम्, अनेन सामू, 'एद्बहुभोसी 'त्यत्वम्, सन्निपातलक्षणन्यायस्यानित्यत्वात् । नाम्यन्तस्थेत पत्वंम् । सर्वादेरित्यत्र सम्बन्धे षष्ठ्या सर्वादिसम्बन्धिन एवामः सामो विधानात् सर्वादेगौणत्वे साम्न प्रवर्तते ॥ नवभ्यः पूर्वेभ्यः पञ्चमी, इच्च स्माच्च स्मिन् चेस्मात्स्मिन् वा ॥ ननु नवभ्य इत्यत्रैद्बहुस्भोसी ति कथमेत्वं न, उच्यते, स्वादिविधौ नलोपस्यासत्वात्, णषमसत्परमित्यसदधिकारात् । पूर्वेभ्य इति बहुवचनं पूर्वादिशब्दग्रहणार्थम्, त्यद् ‘आद्वेरः ' ' लुगस्या ' ' जस इ: ' ' अवर्णस्य' एत्वम् । अस्य पूर्वादिनवशब्दबर्हिभूतत्वान्न विकल्पत इः त्ये ॥ आपः षष्ठी, इत् येषां तेषाम्, यैच यासूच यासूच याम् च ॥ सामर्थ्यान्नाम्नो लाभ:, तस्य आप इति विशेषणम् ।' विशेषणमन्त ' इति तदन्तविधिः । तथा चाबन्तनामसम्बन्धिनामित्यर्थस्तेन बहुखाय पुरुषायेत्यादौ डेविभक्तेराबन्तनामसम्बन्धित्वाभावान्न यायाऽऽदेशः । आवन्तात्परेषामित्युक्तौ त्वत्र यायादेशप्रसङ्गः, सीमन्शब्दात् स्त्रीत्वे ' ताभ्यां वाssy डिदि 'त्यनेन डाप्यपि ङिद्वचनेषु यायादयो ( यै + आढयो याय् +यादयो) भवन्ति " ११
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy