SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ ७७ चतुर्थपादः ] अवचूरिपरिष्कारसहितायाम् ७७ अन्यतर, इतर, डतर, डतम, त्व, त्वत् , नेम, समसिमौ सर्वार्थी, पूर्वापरावरदक्षिणोत्तरापराधराणि व्यवस्थायाम् , स्वमज्ञातिधनाख्यायाम् , अन्तरं बहियोगोपसंव्यानयोरपुरि, त्यद् , तद्, यद्, अदस्, न्तत्वात् । ननु सर्वशब्दस्य बुद्धिस्थानेकार्थवाचित्वेन बहुवचनमेव स्यानैकवचनमिति चेन्न, बुद्धिस्थानेकसङ्ख्याकावयवाऽऽरब्धसमुदाये सर्वशब्दस्य शक्तत्वेन यदानुद्भूतावयवः समुदायस्तदैकवचनं भवत्येव, यथा सर्वो. लोक इति । ताहक्समुदायद्वित्वादिविवक्षायां द्विवचनादि। उद्भूतावयवभेदविवक्षायां तु बहुवचनमेव सर्वे घटा इति । अत्र उभद्विशब्दयोः स्वार्थिकप्रत्ययद्वित्वविषययोः स्मेप्रभृतयो न स्युः, तयोगणपाठस्तु हेत्वर्थप्रयोगे ' सर्वादेः सर्वा' इति सर्वविभक्त्यर्थः । एवं युष्मद्भवत्वस्मदामपि । डतरडतमौ प्रत्ययौ, केवलयोस्तयोः प्रयोगासम्भवात् प्रकृत्याक्षेपेण यस्माच्छब्दादिमौ प्रत्ययौ सम्भवतः तदादिशब्दा डतरडतमान्ता इह डतरडतमशब्दाभ्यां गृह्यन्ते, 'प्रत्ययः प्रकृत्यादेरि 'ति परिभाषासूत्रात् । तथा डतरग्रहणेनैव सिद्धेऽन्यतरग्रहणं इतमप्रत्ययान्तस्यान्यशब्दस्य सर्वादित्वनिवृत्त्यर्थम । अन्ये स्वाहुः नायं डतरप्रत्ययान्तोऽन्यतरशब्दः, किन्त्वव्युत्पन्न एव तरोत्तरपदस्तरबन्तो वा, तन्मते डतमान्तस्याप्यन्यशब्दस्य सर्वादित्वम्, डतरडतमयोः पृथगुपादानमत्राऽन्यस्वार्थिकप्रत्ययान्तानामग्रहणार्थम् ॥ पूर्वापरावरेति स्वाभिधेयापेक्षाऽवधिनियमलक्षणव्यवस्थावाचीन्येतानि सर्वादीनीत्यर्थः । अवध्यंशे नित्यसाकांक्षं यद्रुपं तद्रूपावच्छिन्नवाचकत्वं व्यवस्थावाचकत्वम् , यद्धर्मावच्छिन्नज्ञानोत्तरमवधिविशेषविषयिणी जिज्ञामा नियमेनोदेति तद्धर्मावच्छिन्नवाचकत्वमिति यावत् । स्वशब्द आत्माऽऽमीयज्ञातिधनार्थवृत्तिः, ज्ञातिधनार्थवृत्तौ तु न तस्य सर्वादित्यम् । ' अन्तरमवकाशावधिपरिधानान्तर्द्धिभेदतादर्थे छिद्रात्मीयविनाबहिरवसरमध्येन्तरात्मनि चे 'ति कोशादन्तरशब्दो नानार्थ
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy