SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ ७८ सिद्धहेमलघुवृत्तौ प्रथमाध्यायस्य इदम् , एतद्, एक, द्वि, युष्मद् , अस्मद्, भवतु, किम् इत्यसंज्ञायां सर्वादिः ॥ २ स्मिन् ॥ ८ ॥ सर्वादेरदन्तस्य डे: स्मिन् स्यात् । सर्वस्मिन् ॥ जस इः ॥९॥ सर्वादेरदन्तस्य जस इः स्यात् । स्तत्र बहियोगे उपसंव्याने चार्थे एव तस्य सर्वादित्वम् । बहिरित्यनावृतो देशो बाह्यश्चोच्यते, तत्राधेऽन्तरेऽन्तरा वा गृहाः नगरबाह्या. श्वाण्डालादिगृहा इत्यर्थः । द्वितीये च नगराभ्यन्तरगृहा इत्यर्थः । उपसंव्यानेऽर्थे यथा, अन्तरस्मै पटाय, पटचतुष्टये तृतीयाय चतुर्थाय वेत्यर्थः। शाटकानां त्रये शरीरसंयुक्तस्य तृतीयस्य, चतुष्टये तु चतुर्थस्य बहियोगाभावादुपसंव्यानग्रहणम् । सत्यपि बहियोगे पुरीविषयतायां न सर्वादित्वम् , यथाऽन्तरायां पुरि । त्यद्तद्शब्दो पूर्वोक्तपरामर्शको। यच्छब्द उद्देश्यपरामर्शकः । एतदिदमौ प्रत्यक्षोपस्थिते । अदस् व्यवहिते। एकोऽन्यार्थे प्रधाने च प्रथमे केवले तथा साधारणे समानेऽल्पे सङ्ख्यायाश्च प्रयुज्यते । द्विशब्दो द्वित्वविशिष्टे । सम्बोधनैकविषयो युष्मदर्थः, अस्मच्छब्दस्तूच्चारयित्रर्थः । भवतुशब्दः सलि. ङ्गसम्बोधनव्यभिचारी च । किंशब्दः प्रश्ने आक्षेपे च । सर्वे चामी प्राधान्येनोपस्थिति विषयप्रसिद्धस्वीयसर्वार्थवाचका यदा भवन्ति तदेव सर्वादयो भवन्ति । प्राधान्येनोपस्थितिविषयेति निशादुपसर्जनव्यावृत्तिः। अत्र उपसर्जनत्वञ्च सर्वादिविशिष्टत्वम् , वैशिष्ट्यञ्च स्वान्तपर्याप्तशक्तिनिरूपकार्थनिष्ठविशेष्यतानिरूपितोपस्थितीयप्रकारताप्रयोजकत्वसम्बन्धेन, अत एव सर्वेषां पुत्रः परस्मैपदं अतिभवकान, सर्वस्मिन् शयः इत्यादौ साम् स्मायादयः सिद्ध्यन्ति । तेन · सर्वो नाम कश्चित्तस्मै सर्वाय देहीत्यत्र न सर्वादेः सर्वादित्वम् । सर्वादेरिति षष्ठीनिर्देशेन तत्सम्बन्धिविज्ञानात् प्रियाः सर्वे यस्य तस्मै प्रिय. सर्वायेत्यादौ न स्मायादयः ।। २ः षष्टी, स्मिन् प्रथमा। अतः, सर्वादेरिति पदद्वयमनुवर्तते । अर्थः पूर्ववज्ज्ञेयः ।। जसः षष्ठी, इ: प्रथमा ।
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy