SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ ७६ सिद्धहेमलघुवृत्ती [ प्रथमाध्यायस्य सङ्खयं य आच्च स्याताम् । देवाय, देवात् ॥ सर्वादेः स्मैस्मातो ॥ ७ ॥ सर्वादेरदन्तस्य सम्बन्धिनोर्डेडस्योर्यथासङ्घयं स्मैस्माती स्याताम् । सर्वस्मै, सर्वस्मात् । सर्व, विश्व, उभ, उभयट् , अन्य, 'समानानां' । नन्वदित्येव विधीयताम् , दीपेण च देवादित्यादिरूपसिद्धेः । न चाद्विधाने ' लुगस्यादेत्यपदे' इत्यनेनाकारलोपेऽनिष्टं रूपं प्रसज्येतेति वाच्यम् , तथा सति त् इत्येव कुर्यात् , तथाऽकृत्वा अत्करणात्तत्सूत्रस्याप्रवृत्तिरिति कल्पनादिति चेन्न, अतिजरसादितिरूपसिद्ध्यर्थं तथोक्तेः ॥ सर्व आदिर्यस्य सः सर्वादिस्तस्य, स्मै च स्माच्च स्मैस्मातौ ॥ अत:, डेङस्योरिति चानुवर्तते । ननु सर्व आदिर्यस्येति विग्रहे यस्य समुदायस्यादौ सर्वशब्दो विद्यते स समुदायः सर्वादिरुच्यते, एवञ्च सति सर्वशब्दस्य सादित्वं न स्यादिति चेन्न, तद्गुणसंविज्ञानबहुव्रीहेराश्रयणात्तस्यान्यपदार्थस्य गुणा उपसर्जनानि वृत्तिघटकपदार्था इति यावत् , संविज्ञायन्ते क्रियान्वयित्वेन यत्र स बहुव्रीहिस्तद्गुणसंविज्ञानबहुव्रीहिरित्यर्थः । तथा चैकक्रियान्वयित्वन वृत्तिघटकपदार्थ विशिष्टान्यपदार्थवाचकत्वं तद्गुणसंविज्ञानबहुव्रीहित्वम , यथा लम्बकर्णमानयेत्यनान्यपदार्थस्याऽऽनयनक्रियायामन्वये वृत्तिघटकपदार्थस्य श्रोत्रस्यापि तस्यामन्वयोऽनुभवसिद्ध इत्ययं तद्गुणसंविज्ञानबहुव्रीहिः । प्रकृते समुदायरूपान्यपदार्थान्वयिनि सर्वशब्दस्याप्यन्वय इति तद्गुणसंविज्ञानम् । स्यादीनां नाम्नो भावान्नाम्नामाक्षेपे तस्य सर्वादेविशेषणत्वे 'विशेषणमन्त' इति परिभापया तदन्तविधावदन्तं यत्सर्वाद्यन्तं नाम तत्सम्बन्धिन इत्यर्थो विज्ञेयोऽन्यथा 'न सर्वादेरि 'ति द्वन्द्वे सर्वादिनिषेधो व्यर्थः स्यात् । 'ग्रहणवता नाम्ना न तदन्तविधिरि 'ति न्यायस्याप्यप्रवृत्तेः, तेन परमसर्वस्मै इत्यादिसिद्धिः। न च सर्वस्मै इति न सित्वेत, सर्वायत्तत्वाभावादिति वाच्यम् । 'आद्यन्तवदेकस्मिन्निति न्यायेन तस्यापि सर्वाद्य
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy