________________
चतुर्थपादः ] अवचूरिपरिष्कारसहितायाम् । ७५ आत्परस्य भिस ऐस् स्यात् । इमकैः, अमुकैः । अक्येवेति किम् ? एभिः, अमीभिः ॥ एडहुस्भोसि ॥ ४ ॥ बह्वर्थे स्यादौ सादौ भादावोसि च परे अत एत्स्यात् । एषु, एभिः, देवयोः ॥ टाङसो. रिनस्यौ ॥ ५॥ आत्परयोष्टाङसोर्यथासङ्खयं इनस्यौ स्याताम् । तेन, यस्य ॥ ङस्योर्यातौ ॥ ६॥ आत्परस्य अॅर्डसेश्च यथाइदमोऽकारे कृते अ भिसिति जाते भिस ऐस् न भवति, किन्तु ' एटूहुस्भोसी'त्येत्वम् , एभिः, इदमदस एवाऽकि — भिस ऐस् ' न त्वन्यशब्देभ्य इत्यनिष्टावधारणव्यावृत्तये एवकारः, अन्यथा तकैः विश्वकैरियादेरसिद्धिप्रसङ्गात् । एत्, स् च भ् च स्भौ, बहुषु स्भौ, बहुस्भौ च ओस् च तस्मिन् ॥ अत इत्यनुवर्तते। बहुशब्दोऽत्र न वैपुल्यवाची, किन्तु त्रित्वादिपरार्धाद्यन्तसङ्खथाव्यापकधर्मविशेषावच्छिनपरः, अत । बह्वर्थविषय इत्युक्तम् । कथं तर्हि दारा इति, अवयवबहत्वस्यावयविन्यारोपात् । न चैकस्मिन्नपि वृक्षे तथैव बहुवचनापत्तिरिति वाच्यम्, तत्राऽऽरोपे प्रमाणाभावात् । दारादौ तु नित्यबहुवचनान्तत्वग्राहककोशादेवृद्धव्यवहारस्य च प्रमाणत्वेन वैषम्यात् । देव ओस् , अनेनैकारः । एदैतोऽयाय' देवयोः ॥ टा च ङस् च टाङसौ तयोः, इनश्च स्यश्च इनस्यौ। अत इत्यनुवर्तते, यथासङ्ख्यन्यायश्च । तद् टा, यद् डस् — आवरः ' ' लुगस्यादेत्यपदे अनेन सूत्रेणेनस्याऽऽदेशौ यथाक्रमम् । त इन, ' अवर्णस्येति गुणः ।। डेश्च ङसिश्च तयोः, यश्च आञ्च यातौ ॥ अनुवृत्तिः पूर्ववत् । देव डे, अनेन सूत्रेण : यादेशः । अत आः स्यादावि'त्यनेनाकारस्याऽऽकारः, देवाय । ननु ' अत आः स्यादावि 'ति सूत्रं कथमत्र प्रवर्तते, म्यादौ यस्य पाठाभावेन स्यादित्वाभावात् , मैवम् , ' स्थानीवावर्णविधावि ' ति सूत्रेण यादेशस्य स्यादित्वात् । सन्निपातपरिभाषाऽपि नात्र प्रवर्तते, तस्या अनित्यत्वात् । देव ङसि, अनेन सूत्रेणादादेशः