________________
७४
सिद्धहेमलघुवृत्ती [ प्रथमाध्यायस्य ऐस् ॥ २॥ आत्परस्य स्यादेर्भिस ऐस् स्यात् । देवैः । ऐस्करणादतिजरसैः । इदमदसोऽक्येव ॥ ३ ॥ इदमदसोरक्येव सति ऐस् प्रथमा । अतः स्यादावित्येतयोरभिसम्बन्धः । ' अर्थवशाद्विभक्तिविपरिणाम' इति षष्ठयन्तस्यातोऽत्र पञ्चम्यन्तत्वम् । देव भिस् , अनेनैस् , 'ऐदौदिति देवैः । अनेन भिसः ऐस्कर्तव्ये 'षष्ठयाऽऽन्त्यस्ये 'ति परिभाषासूत्रेण सकारस्यैसादेशे प्राप्ते 'अनेकवर्णः सर्वस्ये 'ति परिभाषासूत्रेण सर्वस्य स्थाने ऐसादेशः । 'एद्वहुस्भोसी' त्येकारः प्राप्तः, तं निरवकाशत्वादिदं सूत्रं बाधित्वा प्रवर्तते । निर. वकाशत्वादिदं सूत्रं - निरवकाशं सावकाशाद्वलवदि 'ति न्यायस्य ज्ञापकम् । यद्यपि भिस ऐसिति सूत्रवचनादपि देवैरित्यादिरूपं सिद्ध्यति, तथाऽप्यतिजरसैरित्यादि न सिद्धयेदित्याह-ऐस्करणादिति । जरामतिक्रान्तानि यानि कुलानीति विग्रहे ‘क्लीबे' ह्रस्वः, अतिजर भिस् , अत्रानेन सूत्रेणैस् , ' एकदेशविकृतमनन्यवदि 'ति न्यायात 'जरायाः जरस्वे 'ति जरशब्दस्य जरसादेशः, तथा चातिजसैरिति रूपम् । एस्विधाने त्वतिजरसेरित्यनिष्टं रूपं स्यात् । इदमेव ऐस्विधानं 'सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्ये 'ति न्यायस्यानित्यतां ज्ञापयति, अन्यथाऽकाराज्जायमानस्यैसोऽकारविनाशेऽनिमित्तत्वेन जरसादेशाभावेन भिस एस्विधानादेवातिजरैरिति रूपसिद्धावस् विधानं व्यर्थ स्यादिति । पाणिनीयास्तु अतिजरित्येवेच्छन्ति ।। इदं च अदस् च तस्य, अकि, एन । अतः मिस ऐस् इत्यनुवर्तन्ते । कुत्सितैरल्पैरज्ञातैर्वा एभिरमीभिर्वा इमकै अमुकैः । इदंशब्दात् 'त्यादिसर्वोदेरि 'ति सूत्रेणाकि, इदकमिति जाते ' आद्वेरः ' ' लुगस्या' इदक भिस् , अनेन नियमसूत्रेण ऐस् , ' दो मः स्यादावि 'ति दस्य मकारे इमकैः, एवं अमुकैः, भिस ऐसित्यनेनैव सिद्धे इदमदसोरक्येव ऐसादेशार्यमिंद सूत्रम् , तेन इदंशब्दात् भिस्यनगिति
इदक भिस्, एवं अमुकैः, मिलतेन इदंशब्दा