________________
चतुर्थः पादः अत 'आः स्यादौ जस्भ्याम्ये ॥१॥ स्यादौ जसि भ्यामि ये च परेऽकारस्य आः स्यात् । देवाः, आभ्याम् , सुखाय । स्यादाविति किम् ? बाणान् जस्यतीति क्विप्-बाणजः ॥ भिस
अतः षष्ठो, आः, सिरादिर्यस्य स तस्मिन् , जस् च भ्यां च यश्च तस्मिन् ॥ देवेत्यस्य 'अधातुविभक्ती'त्यनेन नामत्वे ' नाम्नः प्रथमैकद्विबहावि 'ति बह्वर्थवृत्तदेवशब्दाजसि जकारलोपे ' समानानामि 'गत दीर्घ बाधित्वा · लुगस्यादेत्यपदे 'इत्यनेनालोपे प्राप्तेऽनेन सूत्रेणाऽऽकारः, तेन देवा असिति जातं ततश्च : समानानामि' त्यनेन दीर्घः यो रुः ' 'र: पदान्ते 'देवाः । इदम भ्याम् 'आवरः' ' अनशि 'त्यनेनेदमोऽदाऽऽदेशः, अनेन दीर्घश्व, आभ्याम् । एवं सुखायेत्यादि । अत्र यस्य ' स्थानीवाऽवर्णविधावि 'तिपरिभाषया स्यादित्वं बोध्यम् । जसूच् मोक्षणे, बाणान् जस्यतीति बाणजः, क्वि , ' अप्रयोगीत् ' ' दीर्घङयाबि 'ति सिलोपः । बाण जस् , अत्रानेन सूत्रेण जस्परत्वात्पूर्वस्याकारस्याऽऽकारः प्राप्तः, तद्वारणाय स्यादिग्रहणम् । ननु ' प्रत्ययाऽप्रत्यययोः प्रत्ययस्यैव ग्रहणमिति न्यायेन स्यादिग्रहणाभावेऽपि जसादिप्रत्ययस्यैव प्राप्त्या बाणज इत्यादौ जस्प्रत्ययाभावान्नाऽऽकारः प्राप्नोति, तत्र जसभ्यांप्रत्ययौ स्यादावेव वर्तेते नान्यत्र, तत्साहचर्याद्यप्रत्ययोऽपि स्यादेरेव गृह्यते, तेन' वने साधुरि ति साध्वर्थे यप्रत्यये परेऽपि न दीर्घः,सत्यम् , तथाप्यधिकारार्थं स्यादावित्युक्तम् । तेन शुचिशब्दात् स्त्रीलिङ्गे ङीप्रत्यये कृते, 'ङित्यदिती'ति सूत्रेण नैकारः, डीप्रत्यवस्य स्यादित्वाभावात् । भिसः षष्ठी,
१०