________________
१९४
हेमलघुप्रक्रियाव्याकरणे अथ व्यञ्जनान्ता नपुंसकलिङ्गाः ।
चकारान्तः प्रत्यचूशब्दः । प्रत्यग् , प्रत्यक् । “अच्च प्रागू दीर्घश्च" इति प्रतीची। प्रत्यश्चि । सम्यक् सम्यग् । समीची । सम्यश्चि । शेष पुंवत् । जकारान्तोऽसृजशब्दः । असृग् असृक्, २ । असृजी २ । असृञ्जि २ । शसादौ वाऽसनादेशे असानि । अस्ना । असृजा । असभ्याम् । अमृग्भ्याम् । हे अमृग हे अमृक् । जगत् जगद् । जगती । जगन्ति । महत् । महती । "न्स्महतोः” इति दीर्षे महान्ति यकृतशकृतोः शसादौ वा यकन्शकन्नादेशे यक्का यकृता । यकभ्याम् यकृद्भ्याम् । शना शकृता । शकम्याम् शकृद्भ्याम् । त्यदादीनां "अनता लुप्" इति सिलुप् त्यद् । द्विवचनादौ अत्वे त्ये । त्यानि । सर्वबद् । एवं तद्यदादयः । अहन्शब्दस्य "अह्नः” इति रुत्वे-अहः २ । "ईडौ वा" । अह्नी अहनी, २ । अह्नि अहनि । अह्ना । अहोभ्याम् ३। अहस्सु । हे अहः । ब्रह्मनशब्दस्य " नाम्नो नोऽनह्नः” इतिन-लुपि ब्रह्म । ब्रह्मणी । ब्रह्माणि । ब्रह्मणा ।
प्रतीचि- शा जगन्-दुनीया यक्ना-हिशा
वचस-पी काष्ठतक्षी-सुतार अजा-५४०