________________
चतुर्थोऽध्यायः द्वितीयः पादः
धातुरूप-प्रकरणम्-४ [धातूनां प्रत्ययानां च विविधकार्यम् ] १ आत् सन्ध्यक्षरस्य ४।२।१ संव्याता । त्रातुम् २ न शिति ४।२।२ संध्ययति । त्रायते ३ व्यस् थव-णवि ४।२।३ संविव्ययिथ । संविव्याय ४ स्फुर-स्फुलो पनि ४।२।४ विस्फारः । विस्फालः
५ णौ क्री-जीङः ४।२।१० क्रापयति । जापयति । अध्यापयति ६ चि-स्फुरो नवा ४।२।१२ चापयति, चाययति ७ रुहः पः ४।२।१४ रोपयति, रोहयति ८ लियो नोऽन्तः स्नेह-द्रवे ४।२।१५ घृतं विलोनयति, ९ पातेः (लः) ४।२।१७ पालयति १० धृग् प्रीगो नः ४।२।१८ धूनयति । प्रणयति ११ पा-शा-छा-सा-वे-व्या-हो यः ४।२।२० पाययति १२ अर्ति-री-ठली-ही-क्नूयि-क्ष्मायातां पुः ४।२।२१
अर्पयति १३ घटादे ईस्त्रो दीर्घस्तु वा जि-णम्-परे ४.२।२४ घटयति १४ कगे-वनू-जनै-जष-वनसू-रञ्जः ४।२।२५ कगयति १५ अमोऽकम्यमि-चमः ४।२।२६ रमयति । गमयति । शमयति १६ यमोऽपरिवेषणे णिचि च ४।२।२९ यमयति । १७ मारण-तोषण-निशाने ज्ञश्च ४।२।३० संज्ञपयति पशुम् ।