________________
७५
स्वोपन-लघुवृत्तिः]
ग्रामता, जनता, बन्धुता,
गजता, सहायता ॥२८॥ पुरुषात् कृत-हित-वध-विकारे चैयञ्
।६।२।२९।
समूहे च
पुरुषात्
एयञ् स्यात् । पौरुषेयो ग्रन्थः,
पौरुषेयं पथ्यम् , पौरुषेयो वधो-विकारो वा,
पौरुषेयः समूहः ॥२९॥ विकारे । ६।२।३०। षष्ठयन्ताद् विकारे यथाविहितं प्रत्ययाः स्युः।
आश्मनः, आश्मः ॥३०॥