________________
स्वोपक्ष-लघुवृत्तिः]
[५५९ परि वा त्रिगर्तेभ्यो वृष्टो मेघः। वाक्यस्येति किम् ?
परित्रिगर्त वृष्टो मेघः ॥८८॥ सम्मत्यसुया-कोप-कुत्सनेष्वाद्यामन्त्र्यमादौ स्वरेष्वन्त्यश्च प्लुतः ।७।४ । ८९ । एतद्वृत्तेः वाक्यस्य आदिभूतमामन्त्र्यार्थ पदं द्विः स्यात्, द्वित्वे चादौ स्वराणां मध्ये अन्त्यस्वरः
प्लुतो वा स्यात् । माणवक ३ माणवक!, माणवक माणवक! आर्यः खल्वसि, रिक्तं ते आभिरूप्यम् इदानीं ज्ञास्यसि जाल्म।