________________
स्वोपन-लघुवृत्तिः]
[५३५ अल्पयति अल्पिष्ठः अल्पीयान्
___ यवयति यविष्ठः यवीयान् ॥ प्रशस्यस्य श्रः। ७ । ४ । ३४ । अस्य ण्यादौ
श्रः स्यात् ।
__ श्रयति श्रेष्ठः श्रेयान् ॥३४॥ वृद्धस्य च ज्यः । ७।४।३५ । अस्य प्रशस्यस्य च
ण्यादौ । ज्य: स्यात् ।
ज्ययति, ज्येष्ठः ॥३५॥ ज्यायान् । ७।४ । ३६ । ज्यादेशात् परस्य
ईयसो
आः निपात्यः। ज्यायान् ॥३६॥