________________
५२८]
[हैम-शब्दानुशासनस्य । अवर्जस्य बिणति तद्धिते वृद्धिः स्यात् ।
वा त्वर्धस्य । अर्धकौडविकम् आर्धकौड विकम् । अनत इति किम् ?
अर्धप्रस्थिकम् आर्धप्रस्थिकम् । प्रादु वाहणस्यैये । ७ । ४ । २१ । प्रात् परस्य वाहणस्य एये णिति तद्धिते स्वरेवादेः वृद्धिः स्यात् 'प्रस्य तु वा'।
- प्रवाहणेयः प्रावाहणेयः ॥२१॥ एयस्य । ७।४ । २२ । एयान्तांशात् प्रात् परस्य वाहणस्य