________________
स्वापक्ष-लघुवृत्तिः] कच् वा स्यात् । बहुखरका, बहुखट्नः। शेषादिति किम् ?
प्रियपथः ॥ १७५ ॥ न नाम्नि ।७।३।१७६ । नाम्नि विषये
कच् न स्यात् । ___ बहुदेवदत्तो नाम ग्रामः ॥ १७६ ॥ ईयसोः ।७।३। १७७। ईयस्वन्तात् समासात् कच् न स्यात् ।
बहुश्रेयसी सेना ॥ १७७ ॥ सहात्-तुल्ययोगे । ७।३।१७८ । तुल्ययोगार्थात् सहात् (सामर्थ्यात् तदादेः) बहुव्रीहे.
कच् न स्यात् ।