________________
स्वोपक्ष-लघुवृत्तिः] आभ्यां परस्यास्य बहुव्रीही 'लुक्' स्यात् । विकाकुत्,
उत्काकुत् ॥१६५॥ पूर्णाद् वा । ७।३ । १६६ । पूर्णात् परस्य काकुदस्य बहुव्रीही 'लुक वा' स्यात् ।
पूर्णकाकुत् , पूर्णकाकुदः ।।१६६॥ ककुदस्याऽवस्थायाम् । ७।३। १६७। अस्य बहुव्रीही वयसि गम्ये लुक्' स्यात् । पूर्णककुद् युवा
अककुद् बालः ॥१७॥