________________
४९२ ]
[ हैम-शब्दानुशासनस्य
स्वाङ्ग इति किम् ? दीर्घसक्थि अनः ॥ १२६॥
द्वि-त्रेर्मूर्ध्न वा | ७ | ३ | १२७ |
आभ्यां परो
यो मूर्धा तदन्ताद्बहुव्रीहेः टो वा स्यात् । द्विमूर्धः द्विमू त्रिमूर्धः त्रिमूर्धा ॥ १२७॥ प्रमाणी- संख्याद् ङः | ७ | ३ | १२८ |
।
प्रमाण्यन्तात् सङ्ख्यार्थाच्च बहुव्रीहेः डः स्यात् । स्त्रीप्रमाणा: कुटुम्बिनः द्वित्राः ॥१२८॥
सुप्रात-सुश्व-सुदिव - शारिकुक्ष- चतुरस्त्रैणीपदाऽजपदप्रोष्ठपद-भद्रपदम् । ७ । ३ । १२९ ।