________________
स्वोपश-लघुवृत्तिः ]
[ ४५९
यत्-तत्- किमन्यात् । ७ । ३ । ५३ ।
एभ्यो द्वयोः
एकस्मिन्निर्द्धाऽर्थे वर्त्तमानेभ्यो
डतरः स्यात् । यतरो भवतोः कठादिः ततर आगच्छेत् ,
एवं कतरः, अन्यतरः ॥ ५३ ॥
बहूनां प्रश्ने डतमश्च वा । ७ । ३ । ५४ ।
यदादिभ्यो बहूनां मध्ये
निर्द्धार्यार्थेभ्यः
प्रश्ने
डतमो डतरश्च वा स्यात् ।
यतमो-यतरो वा भवतां कठः ततरः ततमो वा यातु ।