________________
[हैम-शब्दानुशासनस्य अतितराम् , अतितमाम् , अ-सत्त्व इति किम् ?
किन्तरं दारु ॥८॥ गुणाङ्गाद् वेष्ठेयसू । ७।३ । ९ । गुणप्रवृत्तिहेतुकात् तमप्-तरपोर्विषये यथासङ्ख्यमेतौ वा स्याताम् । पटिष्ठः, पटुतमः।
गरीयान् , गुरुतरः ॥९॥ न्यादेश्च प्रशस्ते रूपः । ७ । ३ । १०। त्याधन्तात् नाम्नश्च प्रशस्तार्थाद् रूपपू स्यात् । पचतिरूपम् , दस्युरूपम् ॥१०॥