________________
[४३९
स्वोपक्ष-लघुवृत्तिः] क्वचित् स्वार्थे । ७।३।७। यथालक्ष्य
स्वार्थे
तरप् स्यात् ।।
अभिन्नतरकम् , उच्चस्तराम् ॥७॥ किम्-त्याद्येऽव्ययादसत्त्वे तयोरन्तस्याम्
।७।३।८। किमः त्याधन्ताद् एकारान्तात् । अव्ययाच्च परयोः तमप-तरपोः अन्तस्य आम् स्यात्, नचेत तौ
सत्त्वे द्रव्ये वर्तते। किन्तराम् , किन्तमाम् , पचतितराम् , पचतितमाम् , पूर्वाहणेतराम्, पूर्वाहणेतमां भुङ्क्ते,