________________
-
४३८]
[हैम-शब्दानुशासनस्य समूह इव प्रत्यय: स्यात् ,
__ मयट् च । आपूपिकम् , अपूपमयम् आपूपास्तत्पर्व वा ॥३॥ निन्द्ये पाशप । ७।३।४ । निन्द्यार्थात् स्वार्थे पाशप् स्यात् ।
छान्दसपाशः ॥४॥ प्रकृष्टे तमप । ७।३। ५ । प्रकृष्टार्थात् तमप् स्यात् ।
शुक्लतमः, कारकतमः॥५॥ द्वयोर्विभज्ये च तरप । ७।३।६। द्वयोर्मध्ये प्रकृष्टे विभज्ये च वर्तमानात् तरप् स्यात् ।
पटुतरा स्त्री साकाश्यकेभ्यः पाटलिपुत्रका आढयतराः ॥६॥