________________
४३४]
होत्राया ईयः | ७ | २ | १६३ |
स्वार्थे
[ हैम-शब्दानुशासनस्य
वा स्यात् । होत्रीयम् ॥ १६३॥ भेषजादिभ्यः ट्यण् । ७ । २ । १६४ |
स्वार्थे
वा स्यात् ।
भैषज्यम्, आनन्त्यम् ॥१६४॥ प्रज्ञाऽऽदिभ्योऽण् । ७ । २ | १६५ |
स्वार्थे
अण् वा स्यात् । प्राज्ञः, वाणिजः ॥ १६५॥
श्रोत्रौषधि कृष्णात शरीर - भेषज - मृगे
एभ्यो
| ७ | २ | १६६ |
यथासङ्ख्यं शरीराद्यर्थेभ्यः स्वार्थे अण् वा स्यात् ।