________________
४३२]
[हैम-शब्दानुशासनस्य स्वरूपार्थे भ्यः कारो वा स्यात् । अकारः, ॐकारः। स्वरूप इति किम् ?
अ-विष्णुः ॥१५६॥ राद् एफः।७।२।१५७ । वा स्यात् । रेफः।
प्रायोऽधिकाराद् रकारः ॥१५७॥ नाम-रूप-भागाद् धेयः। ७।२।१५८ । एभ्यः
स्वार्थे
धेयो वा स्यात् ।
नामधेयम् , रूपधेयम् , भागधेयम् ॥ मर्ताऽऽदिभ्यो यः । ७।२ । १५९ । एभ्यो यो स्यात् । मर्त्यः, सूर्यः ॥१५९॥