________________
४३० ]
[ हैम-शब्दानुशासनस्य
एकैकं एकशो वा दत्ते माषं माषं माषशो वा देहि ।
संख्यैकार्थादिति किम् ? माषौ माषौ दत्ते ।
वीप्सायामिति किम् ? द्वौ दत्ते ॥ १५१ ॥ सङ्ख्याऽऽदेः पादाऽऽदिभ्यो दानदण्डे चाकलु लुक् च । ७ । २ । १५२ | सङ्ख्यार्थात् अवयवात् परे
ये पादादयः,
तदन्ताद्
दाने दण्डे वीप्सायां च विषये
अकलू स्यात्
तद्योगे च प्रकृतेः अन्तस्य लुक् । द्विपदिकां दत्ते दण्डिनो भुङ्क्ते वा । एवं द्विशतिकाम् ॥ १५२ ॥ तीयात् टीकण् न विद्या चेत् |७|२|१५३ |
तीयान्तात्