________________
-
३६२]
[हैम-शब्दानुशासनस्य अधेरारूढे । ७।१।१८७ । अधेः
आरूढार्थात्
स्वार्थे
कः स्यात् । अधिको द्रोणः खार्याः,
अधिका खारी द्रोणेन ॥१८७॥ अनोः कमितरि । ७। १ । १८८ । अनोः कः स्यात्, तदन्तश्चेत् कमितरि।
अनुकः ॥१८॥ अमेरीश्च वा । ७ । १ । १८९।
अमेः
कः स्यात् ईश्वाऽस्य वा,