________________
२६६]]
[हैम-शब्दानुशासनस्य अर्द्धाच्च प्रथमान्ताद्
अस्मिन् अस्मै वा दीयते इत्यर्थयोः इकः स्यात्, प्रथमान्तं चेद वृद्धयादि।
द्वितीयिकः, अर्दिकः ॥१५९॥ भागाद् येको। ६।४ १६०। भागात् तदस्मिन्नस्मै वा वृद्धयाधन्यतमं देयमितिविषये य-इको स्याताम् ।
भाग्यः, भागिकः ॥१६०॥ तं पचति द्रोणाद्वाऽञ् । ६।४।१६१ । तमिति द्वितीयान्ताद् द्रोणात् पचल्यथें वाऽब् स्यात् । द्रौणी-द्रौणिकी स्थालीं ॥१६१॥