________________
[१८५
-
-
स्वोपक्ष-लघुवृत्तिः] तस्य इदं अर्थे अब् स्यात् , तुः आदिः इश्च ।
सांवहित्रम् ॥ १८० ॥ तेन प्रोक्ते । ६ । ३ । १८१ । तेनेति दान्तात्
प्रोक्ते
यथाविहितं प्रत्ययाः स्युः। भाद्रबाहवं शास्त्रम्, पाणिनीयम् ,
बाईस्पत्यम् ॥ १८१ ॥ मौदाऽऽदिभ्यः । ६।३ । १८२ । एभ्यः तेन प्रोक्ते यथाविहितं अणू स्यात् । मौदेन प्रोक्तं वेद विदन्ति अधीयते वा मौदा,
पैष्पलादाः॥ १८२ ॥