________________
[१६१
स्वोपश-लघुवृत्तिः] अकञ् वा स्यात् । प्रेष्मकम् प्रैष्मम्-सस्यम्
वासन्तकम् वासन्तम् व्याहरति मृगे । ६।३।१२१ । सप्तम्यन्तात् कालार्थाद् 'व्याहूरति मृगे' अर्थे यथाविहितम्
प्रत्ययः स्यात् । नैशिको नैशो वा शुगालः प्रादोषिकः प्रादोषो वा ।
मृग इति किम् ?
. वसन्ते व्याहरति कोकिलः ॥१२१॥ जयिनि च । ६ । ३। १२२ । सप्तम्यन्तात् कालार्थात् 'जयिनि' अर्थे यथाविहितम्
प्रत्ययः स्यात् ।