________________
१५
करणाभिधानि महान्ति प्रकरणानि सन्ति । तत्र प्रतिव्याकरणं बहुवक्तव्यं बहुविषयतया भवति । सूत्र-गणपाठ युतवृत्ति-धातुपाठोणादि-लिङ्गानुशासनेत्यभिधानि व्याकरणस्य पञ्चाप्यङ्गानि महाप्रतिभेनाचार्यहेमचन्द्रेणैकाकिनैव समुङ्कितानि । एषां सूत्राणां निर्मितिस्तादृशी कृता, यया भूयो वार्तिकादीनामपेक्षोपेक्षिता भवति । एतेषां सूत्राणां टीका “बृहन्न्यास" नाम्नी स्वयं ग्रन्थकृता १२५००० सपादलक्षश्लोकप्रमाणा कृतेति सिद्धराजप्रबन्ध प्रबन्धचिन्तामणिकारेण स्पष्टं व्याभाणि । देशभाषाजनन्या अपभ्रंशभाषाया विशदं व्याकरणं " देशीनाममाला" चेति द्वयं श्रीहेमचन्द्राचार्य एवं कृतवानिति साम्प्रतिका विपश्चितो निश्चिन्वन्ति ॥
यथा हि महर्षिपाणिनिना लौकिकशब्दानुशासनानन्तरं वैदिकशब्दानुशासनं प्रान्ते व्यरचि, तथा कलिकालसर्वज्ञेनाऽपि अष्टमाध्याये जैनागमव्युत्पत्तये संक्षेपादा. र्यभाषा यथाप्रयोगं निरमायि । एवं च संस्कृतद्वयाश्रयकाव्यं प्राकृतद्वथाश्रयकाव्यञ्चेति व्याकरणकाव्यद्वयमप्य. नेन विदुषा कुमारपालचरितनामकं व्यरचि । तत्र पूर्वपुरुषादारभ्य कुमारपालपर्यन्तं चौलुक्यवंशभूपानां विस्तरत ऐतिह्यं वर्णितम् ॥
वि. सं. ११९३ वर्षात्पूर्वे गुर्जरनरेशस्य मालव. विजयोपलक्षनगरप्रवेशोऽभूत् । तदनन्तरं श्रीहेमचन्द्राचा