SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ राजा तुतोष । अथ राजादेशात्प्रधानपुरुषः काश्मीरादिदेशाद् व्याकरणप्रन्था आनीय सूरयेऽदायिषत । विद्वद्मल्लजो हेमचन्द्राचार्योऽपि स्वीययाऽप्रतिमया प्रतिभया सर्वाङ्गपूर्ण सुश्रवं सरलं नूत्नं व्याकरणं व्यरचयत् । तद्ग्रन्थस्य च सिद्धराजकारितत्वाद् श्रीहेमचन्द्रकृतत्वाच्च " सिद्धहेमचन्द्रशब्दानुशासनम् " इति नामकरणं जातम् ॥ इदं हैमं व्याकरणं महर्षिपाणिनिप्रणीतव्याकरणक्रमा नुसार मेवाष्टाध्याय्या सञ्जातम् । प्रत्यध्यायं चत्वारः पादाः । एवं द्वात्रिंशत्पादाः । तेषु च ४६८५ सूत्राणि उणादिसूत्राणि च १००६ सन्ति । सम्पूर्ण सूत्रसङ्ख्या तु ५६९१ । तथापि वासप्तमाध्यायं संस्कृतभाषाव्याकरणम्, अष्टमाध्याये तु प्राकृत - शौरसेनी - मागधी- पैशाचीचूलिका पैशाची - अपभ्रंशेति षण्णां भाषाणां साधुत्वं प्रकटीचकार । संस्कृतभाषाव्याकरणसूत्राणि - ३५६६, प्राकृतादिभाषाव्याकरणसूत्राणि च १११९ वर्त्तन्ते । प्रत्यध्यायं सूत्रसङ्ख्या निम्नोद्धृता "" ૧૪૪ प्रथमाध्याय-सूत्राणि २९४ | पञ्चमाध्याय सूत्राणि ४९८ द्वितीयाध्याय ४६० षष्ठाध्याय ६९२ ――― "" ५२१ सप्तमाध्याय तृतीयाध्याय चतुर्थाध्याय ४८१ | अष्टमाध्याय , " ,, ६७३ , १११९ एतेषु च षष्ठ- सप्तमा - Sष्टमाध्याया महत्तराः सन्ति । तत्कारणन्तु तत्र तद्धित - प्राकृतादिषड्भाषाव्या.
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy