SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ पुरोगण्यो बभूव । स सुधीहेमचन्द्रो राज्ञे "भूमि कामगवि......” इत्याद्यनेकानवद्यपद्यकदम्बैराशीराशिं प्रायच्छत् । श्रुतनव्यभव्यकाव्यकलापो भूजानिर्नितरां चमस्कृतो विद्वत्कल्पपादपोऽतितरां तस्मिन्नाचार्य भक्तिमकार्षीत् तत्कालादारभ्य सूरीशमामन्त्रयामास च । अथैकदोज्जयिनीभाण्डागारत आगतेषु ग्रन्थेषु धाराधीशेन श्रीभोजेन भूभा रचितं "सरस्वतीकण्ठाभरण"नामक ग्रन्थमेकं राजाऽद्राक्षीत् । तदर्शनसमुपजातसमुत्कण्ठो विद्वद्यशोभिलाषुको भूपो नव्यव्याकरणं निर्मापयितुं काममचीकमत । तत्समये गुर्जरे कातंत्रकलापयोः प्रचुरः प्रचार आसीत् , परं ताभ्यां सुकुमारमतीनां छात्राणां नाजायत समीचीना व्युत्पत्तिः। पाणिनीय-शाकटायनादीनाश्च प्रक्रियागौरवावहत्वाक्लिष्टत्वाच्च नातीव चेतोमोदावहत्वमभूत् । तेन सर्वाङ्गपूर्ण सुललितं नव्यं सुश्रवं व्याकरणं राज्ञा धीधनैराचकाङ्क्ष । इत्थं भोजकीतिविजित्वरी कीर्ति नूनव्याकरणनिर्मितिंच्च कामयमानं क्षमापालं गुजरेन्द्रं कारणद्वयं प्रेरयामास ।। ___ अथैकदा राजा स्वेच्छां गुर्जरविदुषो विज्ञापया. मास । ते चैतत्कार्यनिर्वाहदक्षं श्रीमदाचाय्यहेमचन्द्रमेव निर्मत्सरमसूचयन् । ततो मेदिनीनायको भक्तिप्रहेण विज्ञापनेन श्रीमदाचार्यहेमचन्द्रं नव्यसुश्रवव्याकरणनिर्माणं प्रार्थितवान् । तेनापि महानुभावेनाजन्मरचितसाहित्यप्रन्थेन सूरिशेखरेण राज्ञाभ्यर्थन सानन्दमुररीचन्के । तेन
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy