________________
इति हैमबृहन्न्यासे (१।१।२) स्पष्टं व्याकरणमहत्त्व मुद्घोषितम् । अत एव समेऽपि शास्त्रकृतो व्याकरणस्योपादेयत्वं स्पष्टमुररीकुर्वन्ति । तत्र,
"ऐन्द्रं चान्द्रं काशकृत्स्नं कौमार शाकटायनम् । सारस्वतं चाऽऽपिशलं शाकलं पाणिनीयकम् ॥१॥"
इति व्याकरणानि सङ्घययाष्टौ । तेषु च कतमस्य प्रक्रियागौरवावहत्वात्कतमस्याप्राप्यत्वाहजुमतीनां कृते पर. मकारुणिकेनाचार्यश्रीहेमचन्द्रसूरिणा विद्याविपिनमृगेन्द्रेण नव्यं व्याकरण प्रणीय जनताया महानुपकारः कृत इति धन्योऽयं सूरीन्द्रो धन्या चास्य प्रतिभा । अयं हेमचन्द्राचार्यः स्वजनुषा के देशमलचकार, कदा चा प्रादुर्भूतः कदा चैतद्व्याकरणं प्रणीतवानिति विमर्श विमर्शयितव्ये तस्य महानुभावस्यैतिां नूनमाकलनीयमिति किञ्चित्तद्वि. षयेऽपि विविच्यते
वि. सं. ११४५कार्त्तिकशुक्लपूर्णायां धन्धुकानगरे श्रीहेमचन्द्राचार्य्यस्य जन्म । वि. सं. ११५३ माघशुक्ल १४ दीक्षा । वि. सं. ११६६ वैशाखशुक्ल ३ आचार्यपदप्राप्तिः । वि. सं. १२२९ लोकान्तरप्राप्तिश्च । अयं गुर्जरदेशीय इति स्पष्टमैतिह्यादवगम्यते ॥
आसीद् वै. द्वादशशताब्द्यां चौलुक्यवंशीयः सिद्धराजजयसिंहनामा भूपतिः। स च मालवेन्द्र-यशोवर्माणं विजित्य पाटणाभिधं स्वनगरं प्रत्यागच्छन्ननेकैर्विद्वद्वर्यशोवर्णनेन वर्णितः । तत्र चायं जैनाचार्यों हेमचन्द्रस्तेषां