________________
तान्नावैयाकरणः शक्नोति यथायथं विपरिणमयितुम्, तस्मादध्येयं व्याकरणम्......।" इत्यादि ॥
૧૧
" इदमक्षरच्छन्दो वर्णशः समनुक्रान्तम्, यथाssचार्या ऊचुबृहस्पतिरिन्द्रायेन्द्रो भरद्वाजाय भरद्वाज ऋषिभ्य ऋषयो ब्राह्मणेभ्यः । तं खल्विममक्षरसमाम्नायमित्याचक्षते । न भुक्त्वा न नक्तं प्रब्रूयात् ब्रह्मशशिम्” इति नन्दिकेश्वर कृतायां काशिकायामुक्तम् । "वेदानां वेदः” इति छन्दोगश्रुतिरप्येतत्परैवेति । अत एवोक्तं हरिणा" आसन्नं ब्रह्मणस्तस्य तपसामुत्तमं तपः । प्रथमं छन्दसामङ्गमाहुर्व्याकरणं बुधाः ॥ १ ॥ ” ( वाक्यपदीये १११ ॥ ) छन्दः पादौ तु वेदस्य, हस्तौ कल्पोऽथ पठ्यते; ज्योतिषामयनं चक्षु-निरुक्तं श्रोत्रमुच्यते ॥ १ ॥ शिक्षा घ्राणं तु वेदस्य मुखं व्याकरणं स्मृतम् ; तस्मात्साङ्गमधीत्यैव ब्रह्मलोके महीयते ॥ २ ॥ इति पाणिनीयशिक्षायाम् ।
>
"
"
तदेतत्सर्वमवधार्य्यं कलिकालसर्व्वज्ञाऽऽचार्य्यश्रीहे - मचन्द्रेण “ विद्भिक्तानामसाधुत्व निर्मुक्तानां शब्दानां प्रयुक्तेः सम्यग्ज्ञानलक्षणा सिद्धिर्भवति । तद्वारेण च निःश्रेयसम्परम् । तथाहि
......
" व्याकरणात् पदसिद्धि:, पदसिद्धेरर्थनिर्णयो भवति । अर्थात् तत्त्वज्ञानं तत्वज्ञानात् परं श्रेयः ॥ १ ॥ "