________________
स्वोपण-लघुवृत्तिः]
[१३७ क-खोपान्त्य-कन्था-पलद-नगर-ग्राम
हृदोत्तर-पदाद् दोः । ६ । ३। ५९ । कोपान्त्यात् खोपान्त्यात् कन्थाधुत्तरपदाच देशार्थाद्
दोः
शेषेऽथे
ईयः स्यात् । आरीहणकीयः, कौटशिखीयः, दाक्षिकन्थीयः, दाक्षिपलदीयः, दाक्षिनगरीयः,
माहकिग्रामीयः, दाक्षिहृदीयः ॥ ५९॥ पर्वतात् । ६ । ३ । ६०। अस्माद् देशार्थात् शेषे ईयः स्यात् ।
पर्वतीयो राजा ॥६०॥