________________
-
१२०]
[हैम-शब्दानुशासनस्य त्यण स्याद् ।
दाक्षिणात्यः, पाश्चात्यः, पौरस्त्यः ॥ वह्नि-ऊर्दि-पर्दि-कापिश्याः टायनण्
।६। ३ । १४ । एभ्यः शेषेऽथे टायन स्यात् । वाहलायनः, और्दायनः पार्दायनः,
कापिशायनी द्राक्षा ॥ १४ ॥ रङ्कोः प्राणिनि वा । ६ । ३ । १५ । रङ्कुशब्दात् प्राणिनि विशिष्टे शेषेऽर्थे टायनण् वा स्यात् । राङ्कवायणः रावो गौः। कम्बलस्तु
रावः ॥ १५ ॥ क्वेहाऽमा-त्र-तसः त्यच् । ६।३।१६।