________________
[११३
स्वोपक्ष-लघुवृत्तिः]
शातभिषा-शातभिषजः
__ द्विरिति किम् ? हैमवतः ॥१३०॥ तत्रोद्धृते पात्रोभ्यः । ६ । २ । १३८ । तत्रेति सप्तम्यन्तात् पात्रार्थाद्
उद्धतेऽर्थे
यथाविहितं प्रत्ययः स्यात् ।
शारावः ओदनः ॥ १३८ ॥ स्थण्डिलात् शेते व्रती। ६ । २ । १३९ । स्थण्डिलात् सप्तम्यन्तात् शेते व्रतीत्यर्थे यथाविहितं प्रत्ययः स्यात् ।
स्थाण्डिलो भिक्षुः ॥ १३९ ॥ संस्कृते भक्ष्ये । ६।२।१४०। सप्तम्यन्तात् संस्कृते भक्ष्ये यथाविहितं प्रत्ययः स्यात् । ।
भ्राष्ट्रा अपूपाः ॥ १४ ॥