________________
११०]
[हैम-शासन वेत्त्यधीते वेत्यर्थे प्रत्ययस्य लुम् स्यात् ।
अष्टकाः पाणिनीयाः॥ १२८॥ प्रोक्तात् । ६।२।१२९ । प्रोक्तार्थप्रत्ययान्ताद् वेत्त्यधीते वेत्यर्थे प्रत्ययस्य लुप् स्यात् । गोत्रमेन प्रोक्तं गौतमम् ,
तद्वेत्त्यधीते वा गौतमः ॥१२९ ॥ वेदेन्ब्राह्यणमौव । ६।२ । १३० । प्रोक्तप्रत्ययान्तं वेदवाचि इन्नन्तं ब्राह्मणवाचि च अत्रैव
वेच्यतीते वेति विषये श्व
- प्रयुज्यते । कठेन प्रोक्तं वेदं विदन्त्यधीयते वा कठाः ताण्डयेन प्रोक्तं ब्राह्मणं विदन्त्यधीयते वा ताण्डिनः॥ तेन च्छन्ने रथे । ६ ।२।१३१॥