________________
स्वीपा-लघुवृत्तिः]
साऽस्य देवतेतिविषये ... इकण स्यात् ।
माहाराजिकः, प्रौष्ठपदिकः ॥११॥ कालाद् भववत् । ६।२।१११। कालविशेषार्थेभ्यो यथा भवे प्रत्ययाः वक्ष्यन्ते ... तथा साऽस्य देवतेतिविषयेऽपि
स्युः । यथा मासे भवं मासिकम, प्रावृषि प्रावृषेण्यम् ,
तथा मासप्रावृटदेवताकमपि ॥ १११॥ आदेः छन्दसः प्रगाथे । ६ । २ । ११२ । प्रथमान्तात् छन्दसः अस्येति षष्ठयर्थे __ यथाविहितं प्रत्यय: स्यात्,
प्रगाथे वाच्ये। पातः प्रगाथः।