________________
स्वोपक्ष-लघुवृत्तिः] भौरिक्यैषुकार्यादेविध-भक्तम् ।६।२।६८। भौरिक्यादेः राष्ट्र विधः, ऐषुकार्यादेच
भक्तः स्यात् । भौरिकिविधम् भौलिकिविधम् । _ऐषुकारिभक्तम् , सारस्यायनभक्तम् ॥६८॥ निवासाऽदूरभवे इति देशे नाम्नि
।६।२।६९। षष्ठयन्तात् निवासाऽदूरभवयोः यथाविहितं प्रत्ययः स्यात् , तदन्तं चेद् रूढम् देशनाम
शैवम्, वैदिशं पुरम् ॥६९॥ तदत्राऽस्ति ।६।२१७०। तदिति प्रथमान्ताद्, अत्रेति सप्तम्यर्थे यथाविहितं
२