________________
-
स्वीपज्ञ-लघुवत्तिः । म्नां धुट्वर्गेऽन्त्योऽपदान्ते ।१।३।३९। अ-पदान्तस्थानाम् म-नानाम् धुटि वर्गे परे निमित्तस्यैव
__ अन्त्यः अनु स्यात् । गन्ता, शङ्किता, कम्पिता । धुट् इति किम् ? आहन्महे ।
धुट्-वर्ग इति किम् ? गम्यते । अ-पदान्त इति किम् ?
भवान् करोति ॥ ३९ ॥ शिड्-हेऽनुस्वारः । १।३।४०।
अ-पदान्तस्थानाम् नाम् शिटि हे च परे अनुस्वारोऽनु स्यात् ।
पुंसि, दंशः, बृंहणम् ॥ ४०॥