________________
६४]
[ हैम-शब्दानुशासनस्य
प्लुताद् वा । १ । ३ । २९ । पदान्तस्थात् दीर्घात्
प्लुतात् परस्य छस्य द्वे रूपे
वा स्याताम् । आगच्छ भो इन्द्रभूते ३ च्छत्रमानय,
पक्षे छत्रमानय ॥ २९ ॥
स्वरेभ्यः । १ । ३ । ३० ।
स्वरात् परस्य छस्य द्वे रूपे स्याताम् ।
इच्छति, गच्छति ॥३०॥