________________
स्वोपज्ञ लघुवृत्ति: ]
[ રે
ईदूदेद् द्विवचनम् । १ । २ । ३४ ।
ई ऊ ए इत्येवमन्तं द्विवचनं
स्वरे परे
असन्धिः स्यात् ।
मुनी इह, साधू एतौ,
माले इमे, पचेते इति ।
ईदूदेदिति किम् ? वृक्षावत्र | द्विवचनमिति किम् ? कुमार्यत्र ॥ ३४ ॥
अदो मुमी । १ । २ । ३५ ।
अदसः सम्बन्धिनौ
मुमी इत्येतौ स्वरे परे
असन्धी स्याताम् । अमुमुचा । अमी अश्वाः ॥ ३५ ॥