________________
seg ]
महतः
पुंवन्निषेधविषये उत्तरपदे
[ हैम- शब्दानुशासनस्यै
डा न स्यात् ।
महतीप्रियः ॥ ७१ ॥
इच्य-स्वरे दीर्घ आच्च । ३ । २ । ७२ ।
इन्तेऽस्वरादौ उत्तरपदे पूर्वपदस्य दीर्घत्वं
आत् च स्यात् । मुष्टीमुष्टि, मुष्टामुष्टि ।
अ - स्वर इति किम् ?
अस्यसि ।। ७२ ।।
हविष्यष्टन: कपाले । ३ । २ । ७३ ।
हविष्यर्थे कपाले उत्तरपदे
अष्टनो
दीर्घः स्यात् । अष्टाकपालं हविः ।