________________
sarva - लघुवृत्ति: ]
पुनर्वसुरिति किम ! पुष्यमद्याः । भ इति किम् ?
तिष्यपुनर्वसवो बालाः ॥ १२९ ॥ विरोधिनाम् अ-द्रव्याणां नवा इन्द्रः स्वैः । ३ । १ । १३० ।
द्रव्यं = गुणाद्याश्रयः, विरोधिवाचिनां तदाश्रयवृत्तीनां
द्वन्द्वो
एकार्थः स्यात् । स्वै= स्वजातीयैरेवाऽऽरब्धश्चेत् ।
सुखदुःखम् - सुखदुःखे ।
लाभालाभम् - लाभालाभौ ।
विरोधिनामिति किम् ?
काम-क्रोधौ ।
अ - द्रव्याणामिति किम् ?
शीतोष्णे जले |
स्वैरिति किम् ?
[ ४४७
बुद्धि - सुख - दुःखानि ॥ १३० ॥